अयोध्याकाण्ड · 01
द्वितीय सोपान-मंगलाचरण
अयोध्याकाण्ड का प्रकरण 1: द्वितीय सोपान-मंगलाचरण। गोस्वामी तुलसीदास के मूल पद।
चौपाई · 1
यस्यांके च विभाति भूधरसुता देवापगा मस्तके भाले बालविधुर्गले च गरलं यस्योरसि व्यालराट्। सोऽयं भूतिविभूषणः सुरवरः सर्वाधिपः सर्वदा शर्वः सर्वगतः शिवः शशिनिभः श्री शंकरः पातु माम्॥1॥
चौपाई · 2
प्रसन्नतां या न गताभिषेकतस्तथा न मम्ले वनवासदुःखतः। मुखाम्बुजश्री रघुनन्दनस्य मे सदास्तु सा मंजुलमंगलप्रदा॥2॥
चौपाई · 3
नीलाम्बुजश्यामलकोमलांग सीतासमारोपितवामभागम्। पाणौ महासायकचारुचापं नमामि रामं रघुवंशनाथम्॥3॥
गोस्वामी तुलसीदास के मूल पद।